|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.62. अध्यायः 062
Mahabharata - Sabha Parva - Chapter Topics
भीष्मवाक्योपरमे सहदेवेन कृष्णपूजाविरुद्धभाषिणो वधे प्रतिज्ञाते राज्ञां त ूष्णीम्भावः॥ 1॥ सहदेवमूर्ध्नि पुष्पवृष्टिः। अशरीरवाणीच॥ 2॥ नादरदेन कृष्णानर्चकस्य निन्दनम्॥ 3॥ सहदेवेन सभ्यषूजनपूर्वकं कर्मसमापनम्॥ 4॥ शिशुपालेन यज्ञविघाताय राज्ञां प्रोत्साहनम्॥ 5॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
एवमुक्त्वा ततो भीष्णो विरराम महाबलः।
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः॥ 2-62-1(13775)
केशवं केशिहन्तारमप्रमेयपराक्रमम्।
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः॥ 2-62-2(13776)
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्।
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः॥ 2-62-3(13777)
स एव हि मया वध्यो भविष्यति न संशयः।
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम्॥ 2-62-4(13778)
अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्॥ 2-62-5(13779)
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे।
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि॥ 2-62-6(13780)
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति।
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः॥ 2-62-7(13781)
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्।
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः॥ 2-62-8(13782)
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः।
जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना॥ 2-62-9(13783)
वैशम्पायन उवाच। 2-62-10x(1484)
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित्।
सहदेवो नृणां देवः समापयत कर्म तत्॥ 2-62-10(13784)
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः।
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्॥ 2-62-11(13785)
स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम्।
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान्॥ 2-62-12(13786)
इति सर्वान्समुत्साद्य राज्ञस्तांशअचेदिपुङ्गवः।
यज्ञोपघाताय ततः सोऽमन्त्रतय राजभिः॥ 2-62-13(13787)
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः.
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा॥ 2-62-14(13788)
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्।
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन्॥ 2-62-15(13789)
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः।
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्॥ 2-62-16(13790)
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ।
आमिषादपकृष्टानां सिहानामिव गर्जताम्॥ 2-62-17(13791)
तं बलौघमपर्यन्तं राजसागारमक्षयम्।
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा॥ ॥ 2-62-18(13792)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि द्विषष्टितमोऽध्यायः॥ 62॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|